ipad/iphonetopBanner

कथा:

विघ्नेश्वरः 10

लेखक:: चन्दमामा | 5th Sep, 2011


"अम्ब! विन्ध्याचलस्य अनन्तरं समग्रा भूमिः शुष्का अस्ति। सः प्रदेशः सस्यश्यामलः स्यात्। भवत्याः ‘अन्नपूर्णा’ इति नाम सार्थकं स्यात् इति मम इच्छा। यदि गङ्गा तस्मिन् प्रदेशे प्रवहन्ती भवेत् तर्हि महान् लोकोपकारः स्यात्’’ इति अवदत् विघ्नेश्वरः।
"अहं किं वा वदेयम्? सर्वं सम्भवेत् विश्वनाथस्य कृपया" इति अवदत् पार्वती।
सर्वं भगवतः अधीनम् इति विचिन्त्य मौनेन स्थातुं न शक्यते अम्ब ! अस्माकं प्रयत्नः अपि यथायोग्यं स्यात्’’ इति उक्तवान् विघ्नेश्वरः।
"प्रयत्नः तु अवश्यं भवेत्। तत्रापि भवादृशस्य सहयोगः यदि भवेत् तर्हि कार्यं निश्चयेन सिद्धं भवेत्’’ इति अवदत् पार्वती।
 "अम्ब! भवत्याः मुखतः एतदेव श्रोतुम् इच्छामि स्म अहम्। इदानीं प्रस्थानाय अनुज्ञां ददातु कृपया’’ इति उक्त्वा पुनरपि पादस्पर्शपूर्वकं नमस्कृत्य विघ्नेश्वरः महर्षेः गौतमस्य आश्रमं प्रति प्रस्थितवान्।
गौतममुनिः पश्चिमपर्वतश्रेण्याम् आश्रमं निर्माय कृषिकार्ये निरतः आसीत्। विघ्नेश्वरः गर्भिणिधेनुरूपेण परिवृत्तः सन् तत्र गतः।
क्षेत्रस्थानि सस्यानि नाशयन्तीं धेनुं दूरं प्रेषयितुम् इच्छन् मुनिः तां
कमण्डलुजलेन प्रहृतवान्। जलबिन्दुस्पर्शात् एव धेनुः मूर्च्छां प्राप्य भूमौ पतितवती। तस्याः उज्जीवनार्थं गौतमः स्वस्य समग्रां तपश्शक्तिं व्ययीकृतवान्। तथापि सा न उज्जीविता जाता।
एतदवसरे नारदः इन्द्रं जागरितवान्। इन्द्रः गौतमविषये कुपितः आसीत्। ब्रह्मदेवेन अपूर्वसुन्दरी अहल्या सृष्टा आसीत्। इन्द्रः तस्याः सौन्दर्यं दृष्ट्वा व्यामुग्धः जातः। बहवः तां प्राप्तुं समुत्सुकाः आसन। अतः ब्रह्मा नियमं कृतवान् यत् यः भूदेव्याः प्रदक्षिणं समाप्य आदौ प्रत्यागमिष्यति तस्मै एव सा दास्यते इति।
गौतमः गर्भिण्या धेन्वाः प्रदक्षिणं कृत्वा प्रत्यागतवान्। भूमण्डलस्य प्रदक्षिणतः यत् फलं तदेव फलम् एतस्मात् अपि प्राप्तम् अस्ति इति वदन् ब्रह्मा गौतमाय एव अहल्यां समर्पितवान्। गर्भिणि धेनुः भूदेवीसमाना इति उक्तवान् एव गर्भिणीं धेनुं मारितवान् अस्ति इत्यतः प्रतीकारसाधनाय इन्द्रः उत्तमम् अवसरं प्राप्तवान् आसीत्।


सम्बद्धकथाः

BannerBanner